(१६ ककुम्मती पराबृहती, १८ निचृत् ४० पुरस्तात् ककुम्मती), ३ आस्तारपङ्क्तिः, ६ भुरिगार्षी पङ्क्तिः,
७, ४५ जगती, ८, ४८-४९ भुरिक्, ९ अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः, ३७ पुरस्ताद्बृहती,
४२ त्रिपदा एकावसाना भुरिगार्ची गायत्री, ४४ एकावसाना द्विपदाऽर्ची बृहती, ४६ एकावसाना द्विपदा साम्नी त्रिष्टुप्,
४७ पञ्चपदा बार्हतवैराजगर्भा जगती, ५० उपरिष्टाद्विराड् बृहती ५२ पुरस्ताद्विराड् बृहती, ५५ बृहतीगर्भा।
न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑ ।
यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ् परे॑हि