Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 4

Kāṇḍa 2 Sūkta 4

काण्डम् 2 • सूक्तम् 4

Kāṇḍa 2 Sūkta 4 of the Shaunaka Saṁhitā of Atharvaveda with 6 mantras.

Total: 6 Verses • Citations: AV 2.4.1–6 • 2 Lexicon Terms
दीर्घायुःप्राप्तिः।
१-६ अथर्वा। (चन्द्रमाः,) जङ्गिडः। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः।
दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व।
म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम्
जङ्गि॒डो ज॒म्भाद् वि॑श॒राद् विष्क॑न्धादभि॒शोच॑नात्।
म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑
अ॒यं विष्क॑न्धं सहते॒ऽयं बा॑धते अ॒त्त्रिणः॑ ।
अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः
दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑ ।
विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे
श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्।
अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः
कृ॒त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑ ।
अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत्
← Previous (Ch. 38) Full Table of Contents Next (Ch. 40) →