Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 3

Kāṇḍa 2 Sūkta 3

काण्डम् 2 • सूक्तम् 3

Kāṇḍa 2 Sūkta 3 of the Shaunaka Saṁhitā of Atharvaveda with 6 mantras.

Total: 6 Verses • Citations: AV 2.3.1–6 • 2 Lexicon Terms
आस्रावस्य
भेषजम्।
१-६ अङ्गिराः। भैषज्यं, आयुः, धन्वन्तरिः। अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती।
अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्।
तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि
आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते ।
तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम्
नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्
उ॒प॒जीका॒ उद् भ॑रन्ति समु॒द्रादधि॑ भेष॒जम्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत्
अ॒रु॒स्राण॑मि॒दं म॒हत् पृ॑थि॒व्या अध्युद्भृ॑तम्।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्
शं नो॑ भवन्त्व॒प ओष॑धयः शि॒वाः ।
इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद् विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म्
← Previous (Ch. 37) Full Table of Contents Next (Ch. 39) →