Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 24

Kāṇḍa 3 Sūkta 24

काण्डम् 3 • सूक्तम् 24

Kāṇḍa 3 Sūkta 24 of the Shaunaka Saṁhitā of Atharvaveda with 7 mantras.

Total: 7 Verses • Citations: AV 3.24.1–7 • 2 Lexicon Terms
समृद्घि-प्राप्तिः।
१-७ भृगुः। वनस्पतिः. प्रजापतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः।
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।
अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः
वेदा॒हं पय॑स्वन्तं च॒का॑र धा॒न्यं ऽ ब॒हु।
सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे
इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑ ।
वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं समा॑वहान्
उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्।
ए॒वास्माके॒दं धा॒न्यं ऽ स॒हस्र॑धार॒मक्षि॑तम्
शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र ।
कृ॒तस्य॑ का॒र्यऽस्य चे॒ह स्फा॒तिं स॒माव॑ह
ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः ।
तासां॒ या स्फा॑ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि
उ॒पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते ।
तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम्
← Previous (Ch. 94) Full Table of Contents Next (Ch. 96) →