Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 19

Kāṇḍa 3 Sūkta 19

काण्डम् 3 • सूक्तम् 19

Kāṇḍa 3 Sūkta 19 of the Shaunaka Saṁhitā of Atharvaveda with 8 mantras.

Total: 8 Verses • Citations: AV 3.19.1–8 • 2 Lexicon Terms
अजरं क्षत्रम्।
१-८ वसिष्ठः। विश्वे देवाः, चन्द्रमाः, इन्द्रः। अनुष्टुप्, १ पथ्याबृहती, ३ भुरिग्बृहती, ५ त्रिष्टुप्,
६ त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती, ७ विराडास्तारपङ्क्तिः, ८ पथ्यापङ्क्तिः।
संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्य॑१ बल॑म्।
संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॒मस्मि॑ पु॒रोहि॑तः
सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्य॑१ बल॑म्।
वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम्
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्।
क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम्
तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्तीक्ष्ण॑तरा उत॑।
इन्द्र॑स्य॒ वज्रा॒त् तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सुवी॑रं वर्धयामि ।
ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒३षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः
उद्ध॑र्षन्तां मघव॒न् वाजि॑ना॒न्युद् वी॒राणां॒ जय॑तामेतु॒ घोषः॑ ।
पृथ॒ग् घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्।
दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑ ।
ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते ।
जया॒मित्रा॒न् प्र प॑द्यस्व ज॒ह्येऽषां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न
← Previous (Ch. 89) Full Table of Contents Next (Ch. 91) →