Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 17

Kāṇḍa 3 Sūkta 17

काण्डम् 3 • सूक्तम् 17

Kāṇḍa 3 Sūkta 17 of the Shaunaka Saṁhitā of Atharvaveda with 9 mantras.

Total: 9 Verses • Citations: AV 3.17.1–9 • 2 Lexicon Terms
कृषिः।
१-९ विश्वामित्रः। सीता। अनुष्टुप्, १आर्षी गायत्री, २, ५, ९ त्रिष्टुप्,
३ पथ्यापङ्क्तिः, ७ विराट् पुर उष्णिक्, ८ निचृत्।
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒यौ
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्।
वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत् सृ॒ण्यः प॒क्वमा य॑वन्
लाङ्ग॑लं पवी॒रव॑त् सु॒शीमं॑ सोम॒सत्स॑रु ।
उदिद् व॑पतु॒ गामविं॑ प्र॒स्थाव॑द् रथ॒वाह॑नं॒ पीब॑रीं च प्रफ॒र्व्यऽम्
इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु ।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्
शु॒नं सु॑फा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्।
शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्।
शु॒नं व॑र॒त्रा ब॑ध्य॒न्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय
शुना॑सीरे॒ह स्म॑ मे जुषेथाम्।
यद् दि॒वि च॒क्रथुः॒ पय॒स्तेने॒मामुप॑ सिञ्चतम्
सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव ।
यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑ ।
सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त् पिन्व॑माना
← Previous (Ch. 87) Full Table of Contents Next (Ch. 89) →