Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 32

Kāṇḍa 2 Sūkta 32

काण्डम् 2 • सूक्तम् 32

Kāṇḍa 2 Sūkta 32 of the Shaunaka Saṁhitā of Atharvaveda with 6 mantras.

Total: 6 Verses • Citations: AV 2.32.1–6 • 2 Lexicon Terms
क्रिमिनाशनम्।
१-६ कण्वः। आदित्यः। अनुष्टुप्, १ त्रिपाद्भुरिग्गायत्री, ६ चतुष्पान्निचृदुष्णिक्।
उ॒द्यन्ना॑दि॒त्यः क्रिमी॑न् हन्तु नि॒म्रोच॑न् हन्तु र॒श्मिभिः॑ ।
ये अ॒न्तः क्रिम॑यो॒ गवि॑
वि॒श्वरू॑पं चतुर॒क्षं क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्।
शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑
अ॒त्रि॒वद् वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्।
अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न्
ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः ।
ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा
ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः ।
अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः
प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑ ।
भि॒नाद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑
← Previous (Ch. 66) Full Table of Contents Next (Ch. 68) →