Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 19

Kāṇḍa 2 Sūkta 19

काण्डम् 2 • सूक्तम् 19

Kāṇḍa 2 Sūkta 19 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 2.19.1–5 • 2 Lexicon Terms
शत्रुनाशनम्।
१-५ अथर्वा। अग्निः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा।
अग्ने॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः
अग्ने॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः
अग्ने॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः
अग्ने॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः
अग्ने॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः
← Previous (Ch. 53) Full Table of Contents Next (Ch. 55) →