Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 12

Kāṇḍa 2 Sūkta 12

काण्डम् 2 • सूक्तम् 12

Kāṇḍa 2 Sūkta 12 of the Shaunaka Saṁhitā of Atharvaveda with 8 mantras.

Total: 8 Verses • Citations: AV 2.12.1–8 • 2 Lexicon Terms
शत्रुनाशनम्।
१-८ भरद्वाजः। १ द्यावापृथिवी, अन्तरिक्षम्, २ देवाः, ३ इन्द्रः, ४ आदित्या वसवोऽङ्गिरसः पितरः,
५ सोम्यासः पितरः, ६ मरुतः, ७ यमसादनम्, ब्रह्म, ८ अग्निः।
त्रिष्टुप्, २ जगती, ७-८ अनुष्टुप्।
द्यावा॑पृथिवी उ॒र्व॑१न्त॑रिक्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः ।
उ॒तान्तरिक्ष॑मु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने
इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति ।
पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑
इ॒दमि॑न्द्र शृणुहि सोमप॒ यत् त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि ।
वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑
अ॒शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ।
इ॒ष्टा॒पू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न
द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्।
अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता
अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत् क्रि॒यमा॑णम्।
तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति
स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा ।
अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः
आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि ।
अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गछतु
← Previous (Ch. 46) Full Table of Contents Next (Ch. 48) →