Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 1 (Bālakāṇḍa) • Sūkta 16

Kāṇḍa 1 Sūkta 16

काण्डम् 1 • सूक्तम् 16

Kāṇḍa 1 Sūkta 16 of the Shaunaka Saṁhitā of Atharvaveda with 4 mantras.

Total: 4 Verses • Citations: AV 1.16.1–4 • 2 Lexicon Terms
शत्रुबाधनम्।
१-४ चातनः। १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्)। अनुष्टुप्, ४ ककुम्मती अनुष्टुप्।
येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ ।
अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत्
सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति ।
सीसं॑ म॒ इन्द्रः॒ प्राय॑च्छ॒त् तद॒ङ्ग या॑तु॒चात॑नम्
इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑ ।
अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः
यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम्।
तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नोऽसो॒ अवी॑रहा
← Previous (Ch. 15) Full Table of Contents Next (Ch. 17) →