Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 11

Kāṇḍa 5 Sūkta 11

काण्डम् 5 • सूक्तम् 11

Kāṇḍa 5 Sūkta 11 of the Shaunaka Saṁhitā of Atharvaveda with 11 mantras.

Total: 11 Verses • Citations: AV 5.11.1–11 • 2 Lexicon Terms
संपत्कर्म।
१-११ अथर्वा। वरुणः (प्रश्नोत्तरम्)। त्रिष्टुप्, १ भुरिक्, ३ पङ्क्तिः,
६ पञ्चपदा अतिशक्वरी, ११ त्र्यवसाना षट्-पदा अत्यष्टिः।
क॒थं म॒हे असु॑रायाब्रवीरि॒ह क॒थं पि॒त्रे हर॑ये त्वे॒षनृ॑म्णः ।
पृश्निं॑ वरुण॒ दक्षि॑णां ददा॒वान् पुन॑र्मघ॒ त्वं मन॑साचिकित्सीः
न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे ।
केन॒ नु त्वम॑थर्व॑न् काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः
स॒त्यम॒हं ग॑भी॒रः काव्ये॑न स॒त्यं जा॒तेना॑स्मि जा॒तवे॑दाः ।
न मे॑ दा॒सो नार्यो॑ महि॒त्वा व्र॒तं मी॑माय॒ यद॒हं ध॑रि॒ष्ये
न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्।
त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय
त्वं ह्य॑१ङ्ग व॑रुण स्वधाव॒न् विश्वा॒ वेत्थ॒ जनि॑म सुप्रणीते ।
किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर
एकं॒ रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्।
तत् ते॑ वि॒द्वान् वरु॑ण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म्
त्वं ह्य१ङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑ ।
मो षु प॒णींर॒भ्ये॒३ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः
मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि ।
स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु
आ ते॑ स्तोत्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु।
दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि
स॒मा नौ॒ बन्धु॑र्वरुण स॒मा जा वेदा॒हं तद् यन्ना॑वे॒षा स॒मा जा।
ददा॑मि॒ तद् यत् ते अद॑त्तो॒ अस्मि॒ युज्य॑स्ते स॒प्तप॑दः॒ सखा॑स्मि
दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः ।
अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्।
तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑
← Previous (Ch. 152) Full Table of Contents Next (Ch. 154) →