Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 15 (Kāṇḍa 15) • Sūkta 3

Kāṇḍa 15 Sūkta 3

काण्डम् 15 • सूक्तम् 3

Kāṇḍa 15 Sūkta 3 of the Shaunaka Saṁhitā of Atharvaveda with 11 mantras.

Total: 11 Verses • Citations: AV 15.3.1–11 • 2 Lexicon Terms
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ पिपीलिकमध्या गायत्री; २ साम्नी उष्णिक्; ३ याजुषी जगती;
४ द्विपदाऽर्च्युष्णिक्; ५ आर्ची बृहती; ६ आसुर्यनुष्टुप्; ७ साम्नी गायत्री; ८ आसुरी पङ्क्तिः;
९ आसुरी जगती; १० प्राजापत्या त्रिष्टुप्; ११ विराड् गायत्री।
स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑
सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑
तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन्
तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ
बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॒३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये
ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑
वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम्
सामा॑सा॒द उ॑द्गी॒थोऽपश्र॒यः
तामा॑स॒न्दीं व्रात्य॒ आरो॑हत्
तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑
विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑
← Previous (Ch. 491) Full Table of Contents Next (Ch. 493) →