Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 1 (Bālakāṇḍa) • Sūkta 8

Kāṇḍa 1 Sūkta 8

काण्डम् 1 • सूक्तम् 8

Kāṇḍa 1 Sūkta 8 of the Shaunaka Saṁhitā of Atharvaveda with 4 mantras.

Total: 4 Verses • Citations: AV 1.8.1–4 • 2 Lexicon Terms
यातुधाननाशनम्।
१-४ चातनः। १-२ बृहस्पतिः, अग्नीषोमौ च, ३-४ अग्निः (जातवेदाः)। १-३ अनुष्टुप्, ४ बार्हतगर्भा त्रिष्टुप्।
इ॒दं ह॒विर्या॑तु॒धाना॑न् न॒दी फेन॑मि॒वा व॑हत्।
य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑
अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत ।
बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम्
या॒तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च ।
नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम्
यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः ।
तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्येऽषां शत॒तर्ह॑मग्ने
← Previous (Ch. 7) Full Table of Contents Next (Ch. 9) →